वांछित मन्त्र चुनें

नाहमि॑न्द्राणि रारण॒ सख्यु॑र्वृ॒षाक॑पेॠ॒ते । यस्ये॒दमप्यं॑ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ॥

अंग्रेज़ी लिप्यंतरण

nāham indrāṇi rāraṇa sakhyur vṛṣākaper ṛte | yasyedam apyaṁ haviḥ priyaṁ deveṣu gacchati viśvasmād indra uttaraḥ ||

पद पाठ

न । अ॒हम् । इ॒न्द्रा॒णि॒ । र॒र॒ण॒ । सख्युः॑ । वृ॒षाक॑पेः । ऋ॒ते । यस्य॑ । इ॒दम् । अप्य॑म् । ह॒विः । प्रि॒यम् । दे॒वेषु । गच्छ॑ति । विश्व॑स्मात् । इन्द्रः॑ । उत्ऽत॑रः ॥ १०.८६.१२

ऋग्वेद » मण्डल:10» सूक्त:86» मन्त्र:12 | अष्टक:8» अध्याय:4» वर्ग:3» मन्त्र:2 | मण्डल:10» अनुवाक:7» मन्त्र:12


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्राणि) हे व्योमकक्षा ! (वृषाकपेः सख्युः-ऋते) सूर्य सखीभूत-पुत्र के विना (अहं न रराण) मैं रमण नहीं करता हूँ, शान्ति को प्राप्त नहीं करता हूँ (यस्य-इदम्-अप्यम्) जिस सूर्य का यह अन्तरिक्ष में जानेवाला (प्रियं हविः) अभीष्ट रश्मितेज (देवेषु गच्छति) ग्रह नक्षत्रों में जाता है ॥१२॥ 
भावार्थभाषाः - सूर्य के बिना उत्तर ध्रुव का कार्य नहीं चलता है, आकाश के सब गोलों में सूर्य का रश्मितेज पहुँचता है ॥१२॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्राणि) हे इन्द्राणि ! व्योमकक्षे ! (सख्युः-वृषाकपेः-ऋते-अहं न रराण) सखिभूताद् वृषाकपेः सूर्यादृते नाहं रमामि न शान्तिं लभे (यस्य-इदम्-अप्यं प्रियं हविः-देवेषु गच्छति) यस्य वृषाकपेः सूर्यस्य खल्विदमन्तरिक्षगामिप्रियरश्मितेजः “आपोऽन्तरिक्षनाम” [निघ० १।३] द्युस्थानगतेषु लोकेषु गच्छति “देवो द्युस्थानो भवतीति वा” [निरु० ७।१५] ॥१२॥